मूल-मन्त्रः- “ॐ ऐं क्लां क्लीं क्लूं ह्रां ह्रीं
ह्रूं सः वं आपदुद्धारणाय अजामल-बद्धाय लोकेश्वराय स्वर्णाकर्षण-भैरवाय मम
दारिद्र्य-विद्वेषणाय श्रीं महा-भैरवाय नमः
स्वर्णाकर्षण भैरव स्तोत्र
श्री स्वर्णाकर्षण भैरव स्तोत्र श्री
मार्कण्डेय उवाच ।।
भगवन् ! प्रमथाधीश ! शिव-तुल्य-पराक्रम !
पूर्वमुक्तस्त्वया मन्त्रं, भैरवस्य
महात्मनः ।।
इदानीं श्रोतुमिच्छामि, तस्य
स्तोत्रमनुत्तमं ।
तत् केनोक्तं पुरा स्तोत्रं, पठनात्तस्य
किं फलम् ।।
तत् सर्वं श्रोतुमिच्छामि, ब्रूहि
मे नन्दिकेश्वर !।।
।। श्री नन्दिकेश्वर उवाच ।।
इदं ब्रह्मन् ! महा-भाग, लोकानामुपकारक !
स्तोत्रं वटुक-नाथस्य, दुर्लभं
भुवन-त्रये ।।
सर्व-पाप-प्रशमनं, सर्व-सम्पत्ति-दायकम्
।
दारिद्र्य-शमनं पुंसामापदा-भय-हारकम् ।।
अष्टैश्वर्य-प्रदं नृणां, पराजय-विनाशनम्
।
महा-कान्ति-प्रदं चैव, सोम-सौन्दर्य-दायकम्
।।
महा-कीर्ति-प्रदं स्तोत्रं, भैरवस्य
महात्मनः ।
न वक्तव्यं निराचारे, हि पुत्राय च
सर्वथा ।।
शुचये गुरु-भक्ताय, शुचयेऽपि
तपस्विने ।
महा-भैरव-भक्ताय, सेविते निर्धनाय
च ।।
निज-भक्ताय वक्तव्यमन्यथा शापमाप्नुयात् ।
स्तोत्रमेतत् भैरवस्य, ब्रह्म-विष्णु-शिवात्मनः
।।
श्रृणुष्व ब्रूहितो ब्रह्मन् !
सर्व-काम-प्रदायकम्
विनियोगः- ॐ अस्य
श्रीस्वर्णाकर्षण-भैरव-स्तोत्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः,
श्रीस्वर्णाकर्षण-भैरव-देवता,
ह्रीं
बीजं, क्लीं शक्ति, सः कीलकम्, मम-सर्व-काम-सिद्धयर्थे
पाठे विनियोगः ।
ध्यानः-
मन्दार-द्रुम-मूल-भाजि विजिते रत्नासने संस्थिते
। दिव्यं चारुण-चञ्चुकाधर-रुचा देव्या कृतालिंगनः ।।
भक्तेभ्यः कर-रत्न-पात्र-भरितं स्वर्ण दधानो
भृशम् ।
स्वर्णाकर्षण-भैरवो भवतु मे स्वर्गापवर्ग-प्रदः
।।
स्तोत्र-पाठ ।। ॐ नमस्तेऽस्तु भैरवाय, ब्रह्म-विष्णु-शिवात्मने,
नमः
त्रैलोक्य-वन्द्याय, वरदाय परात्मने ।।
रत्न-सिंहासनस्थाय, दिव्याभरण-शोभिने
।
नमस्तेऽनेक-हस्ताय, ह्यनेक-शिरसे
नमः ।
नमस्तेऽनेक-नेत्राय, ह्यनेक-विभवे
नमः ।।
नमस्तेऽनेक-कण्ठाय, ह्यनेकान्ताय ते
नमः ।
नमोस्त्वनेकैश्वर्याय, ह्यनेक-दिव्य-तेजसे
।।
अनेकायुध-युक्ताय, ह्यनेक-सुर-सेविने
।
अनेक-गुण-युक्ताय, महा-देवाय ते
नमः ।।
नमो दारिद्रय-कालाय, महा-सम्पत्-प्रदायिने
।
श्रीभैरवी-प्रयुक्ताय, त्रिलोकेशाय ते
नमः ।।
दिगम्बर ! नमस्तुभ्यं, दिगीशाय नमो नमः
।
नमोऽस्तु दैत्य-कालाय, पाप-कालाय ते
नमः ।।
सर्वज्ञाय नमस्तुभ्यं, नमस्ते
दिव्य-चक्षुषे ।
अजिताय नमस्तुभ्यं, जितामित्राय ते
नमः ।।
नमस्ते रुद्र-पुत्राय, गण-नाथाय ते नमः
।
नमस्ते वीर-वीराय, महा-वीराय ते
नमः ।।
नमोऽस्त्वनन्त-वीर्याय, महा-घोराय ते
नमः ।
नमस्ते घोर-घोराय, विश्व-घोराय ते
नमः ।।
नमः उग्राय शान्ताय, भक्तेभ्यः
शान्ति-दायिने ।
गुरवे सर्व-लोकानां, नमः
प्रणव-रुपिणे ।।
नमस्ते वाग्-भवाख्याय, दीर्घ-कामाय ते
नमः ।
नमस्ते काम-राजाय, योषित्कामाय ते
नमः ।।
दीर्घ-माया-स्वरुपाय, महा-माया-पते
नमः ।
सृष्टि-माया-स्वरुपाय, विसर्गाय
सम्यायिने ।।
रुद्र-लोकेश-पूज्याय, ह्यापदुद्धारणाय
च ।
नमोऽजामल-बद्धाय, सुवर्णाकर्षणाय
ते ।।
नमो नमो भैरवाय, महा-दारिद्रय-नाशिने
।
उन्मूलन-कर्मठाय, ह्यलक्ष्म्या
सर्वदा नमः ।।
नमो लोक-त्रेशाय, स्वानन्द-निहिताय
ते ।
नमः श्रीबीज-रुपाय, सर्व-काम-प्रदायिने
।।
नमो महा-भैरवाय, श्रीरुपाय नमो
नमः ।
धनाध्यक्ष ! नमस्तुभ्यं, शरण्याय नमो नमः
।।
नमः प्रसन्न-रुपाय, ह्यादि-देवाय ते
नमः ।
नमस्ते मन्त्र-रुपाय, नमस्ते
रत्न-रुपिणे ।।
नमस्ते स्वर्ण-रुपाय, सुवर्णाय नमो
नमः ।
नमः सुवर्ण-वर्णाय, महा-पुण्याय ते
नमः ।।
नमः शुद्धाय बुद्धाय, नमः
संसार-तारिणे ।
नमो देवाय गुह्याय, प्रबलाय नमो नमः
।।
नमस्ते बल-रुपाय, परेषां
बल-नाशिने ।
नमस्ते स्वर्ग-संस्थाय, नमो
भूर्लोक-वासिने ।।
नमः पाताल-वासाय, निराधाराय ते
नमः ।
नमो नमः स्वतन्त्राय, ह्यनन्ताय नमो
नमः ।।
द्वि-भुजाय नमस्तुभ्यं, भुज-त्रय-सुशोभिने
।
नमोऽणिमादि-सिद्धाय, स्वर्ण-हस्ताय
ते नमः ।
पूर्ण-चन्द्र-प्रतीकाश-वदनाम्भोज-शोभिने ।
नमस्ते स्वर्ण-रुपाय, स्वर्णालंकार-शोभिने
।।
नमः स्वर्णाकर्षणाय, स्वर्णाभाय च ते
नमः ।
नमस्ते स्वर्ण-कण्ठाय, स्वर्णालंकार-धारिणे
।।
स्वर्ण-सिंहासनस्थाय, स्वर्ण-पादाय ते
नमः ।
नमः स्वर्णाभ-पाराय, स्वर्ण-काञ्ची-सुशोभिने
।।
नमस्ते स्वर्ण-जंघाय, भक्त-काम-दुघात्मने
।
नमस्ते स्वर्ण-भक्तानां, कल्प-वृक्ष-स्वरुपिणे
।।
चिन्तामणि-स्वरुपाय, नमो
ब्रह्मादि-सेविने ।
कल्पद्रुमाधः-संस्थाय, बहु-स्वर्ण-प्रदायिने
।।
भय-कालाय भक्तेभ्यः, सर्वाभीष्ट-प्रदायिने
।
नमो हेमादि-कर्षाय, भैरवाय नमो नमः
।।
स्तवेनानेन सन्तुष्टो, भव लोकेश-भैरव !
पश्य मां करुणाविष्ट, शरणागत-वत्सल !
श्रीभैरव धनाध्यक्ष, शरणं त्वां
भजाम्यहम् ।
प्रसीद सकलान् कामान्, प्रयच्छ मम
सर्वदा ।।
।। फल-श्रुति ।।
श्रीमहा-भैरवस्येदं, स्तोत्र सूक्तं
सु-दुर्लभम् ।
मन्त्रात्मकं महा-पुण्यं, सर्वैश्वर्य-प्रदायकम्
।।
यः पठेन्नित्यमेकाग्रं, पातकैः स
विमुच्यते ।
लभते चामला-लक्ष्मीमष्टैश्वर्यमवाप्नुयात् ।।
चिन्तामणिमवाप्नोति, धेनुं कल्पतरुं
ध्रुवम् ।
स्वर्ण-राशिमवाप्नोति, सिद्धिमेव स
मानवः ।।
संध्याय यः पठेत्स्तोत्र, दशावृत्त्या
नरोत्तमैः ।
स्वप्ने श्रीभैरवस्तस्य, साक्षाद् भूतो
जगद्-गुरुः ।
स्वर्ण-राशि ददात्येव, तत्क्षणान्नास्ति
संशयः ।
सर्वदा यः पठेत् स्तोत्रं, भैरवस्य
महात्मनः ।।
लोक-त्रयं वशी कुर्यात्, अचलां श्रियं
चाप्नुयात् ।
न भयं लभते क्वापि, विघ्न-भूतादि-सम्भव
।।
म्रियन्ते शत्रवोऽवश्यम लक्ष्मी-नाशमाप्नुयात्
।
अक्षयं लभते सौख्यं, सर्वदा
मानवोत्तमः ।।
अष्ट-पञ्चाशताणढ्यो, मन्त्र-राजः
प्रकीर्तितः ।
दारिद्र्य-दुःख-शमनं, स्वर्णाकर्षण-कारकः
।।
य येन संजपेत् धीमान्, स्तोत्र वा
प्रपठेत् सदा ।
महा-भैरव-सायुज्यं, स्वान्त-काले
भवेद् ध्रुवं ।।